श्रीआदित्यहृदयस्तोत्रम्

श्रीआदित्यहृदयस्तोत्रम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥

 दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।

 उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा ॥ २ ॥

 राम राम महाबाहो शृणु गुह्यं सनातनम्।

येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।

जयावहं जपं नित्यमक्षयं परमं शिवम् ॥ ४ ॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।

चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥

सर्वदेवात्मको होष तेजस्वी रश्मिभावनः ।

एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।

 महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ ८ ॥

 पितरो वसवः साध्या अश्विनौ मरुतो मनुः।

वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥

 आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

 सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥

हरिदश्वः सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।

 तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकों ऽशुमान् ॥ ११ ॥

हिरण्यगर्भः शिशिरस्तपनो ऽहस्करो रविः ।

 अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।

 घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥

 आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।

कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।

 तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।

ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥

जयाय जयभद्राय हर्यश्वाय नमो नमः।

नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥ १७॥

नम उग्राय वीराय सारङ्गाय नमो नमः।

नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥ १८ ॥

 ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।

 भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥

तप्तचामीकराभाय हरये विश्वकर्मणे।

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।

 पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।

 एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।

 यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥ २४॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।

 कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥

 पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।

एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥

 अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।

 एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥ २७॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा।

 धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥

 आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।

 त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् ।

सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥ ३० ॥

 अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥

॥ श्रीवाल्मीकीये रामायणे युद्धकाण्डे, अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णम् ॥


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

en_USEnglish