श्रीरामरक्षा-स्तोत्रम्

                    श्रीरामरक्षास्तोत्रम्

                             विनियोगः

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीसीता- रामचन्द्रो देवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।

             ध्यानम्

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।

 वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं

 नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥

          स्तोत्रम्

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १ ॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २ ॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ३ ॥

 रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।

 शिरो मे राघवः पातु भालं दशरथात्मजः ॥ ४ ॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती।

 घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५ ॥

 जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६ ॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७ ॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

 ऊरू रघूत्तमः पातु रक्षः कुलविनाशकृत् ॥ ८ ॥

 जानुनी सेतुकृत् पातु जड्डे दशमुखान्तकः ।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९ ॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १० ॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

 न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

 नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ १२ ॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

 यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३ ॥

 वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४॥

 आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५ ॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम्।

 अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६ ॥

 तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७ ॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।

 पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्।

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९ ॥

 आत्तसज्जधनुषाविषुस्पृशा-

वक्षयाशुगनिषङ्गसङ्गिनौ।

रक्षणाय मम रामलक्ष्मणा-

वग्रतः पथि सदैव गच्छताम् ॥ २० ॥

संनद्धः कवची खङ्गी चापबाणधरो युवा।

 गच्छन् मनोरथान् नश्च रामः पातु सलक्ष्मणः ॥ २१ ॥

 रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ २२ ॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

 जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥

 इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४ ॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

 स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ २५ ॥

 रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्ति

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६ ॥

 रामाय रामभद्राय रामचन्द्राय वेधसे।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७ ॥

श्रीराम राम रघुनन्दन राम राम

 श्रीराम राम भरताग्रज राम राम।

 श्रीराम राम रणकर्कश राम राम

 श्रीराम राम शरणं भव राम राम ॥ २८ ॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि

श्रीरामचन्द्रचरणौ वचसा गृणामि।

श्रीरामचन्द्रचरणौ शिरसा नमामि

 श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९ ॥

माता रामो मत्पिता रामचन्द्रः

स्वामी रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालु-

र्नान्यं जाने नैव जाने न जाने ॥ ३० ॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१ ॥

लोकाभिरामं राजीवनेत्रं रणरङ्गधीरं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३२ ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३३ ॥

 कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

 आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५ ॥

 भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

 तर्जनं यमदूतानां रामरामेति गर्जनम् ॥ ३६ ॥

 रामो राजमणिः सदा विजयते रामं रमेशं भजे

 रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

 रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं

 रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७ ॥

 राम रामेति रामेति रमे रामे मनोरमे।

 सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८ ॥

॥ इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥


Comments

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

hi_INHindi