Your cart is currently empty!
Shiv Mhiman Stotram शिवमहिम्न स्तोत्रम्
महिम्नः पारन्ते परमविदुषो यद्यसदृशी ।
स्तुतिब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ॥
अथावाच्यः सर्वः स्वमतिपरिमाणावधि गृणन् ।
ममाप्येष स्तोत्रे हर ! निरपवादः परिकरः ।।१।।
अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः ।
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥
मधुस्फीता वाचः परमममृतं निर्मितवत-
स्तवब्रह्मन्किवागपि सुरगुरोविस्मय पदम् ।।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः ।
पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥
तवैश्वर्यं तत्तज्जगदुदयरक्षा प्रलयकृत् ।
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासुतनुषु ।।
अभव्यानामस्मिन्वरद रमणीयामरमणीम् ।
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥४॥
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम् ।
किमाधारो धाता सृजति किमुपादान इति च ।।
अतर्कैश्वर्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः ।
कुतकर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ।।५।।
अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं कि भवविधिरनादृत्य भवति ॥
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतोमन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति ।
प्रभिन्न प्रस्थाने परमिदमदः पथ्यमिति च ॥
रुचीनां वैचित्र्याद्द्रूजुकुटिलनानापथजुषां ।
नृमाणेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥
महोक्षः खट्वांगम्परशुरजिनं भस्म फणिनः ।
कपालंचेतीयत्तव वरद तन्त्रोपकरणम् ।।
सुरास्तां तामृद्धिं दधति तु भवद्भ्रू प्रणिहिताम् ।
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।८।
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदम् ।
परोधौव्याध्रौव्ये जगति गदति व्यस्तविषये ।।
समस्तेऽप्येतस्मिन्पुरमथन तै:विस्मित इव ।
स्तुवञ्जिह्वेमि त्वां न खलु ननु धृष्टा मुखरता ।९।
तवैश्वर्यं यत्नाद्यदुपरिविरंचिर्हरिरधः ।
परिच्छेत्तु यातावनलमनिलस्कन्धवपुषः ।।
ततोभक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् ।
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।१०।
अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरम् ।
दशास्यो यद्बाहूनभूत रणकण्डूपरवशान् ।।
शिरः पद्मश्रेणीरचितचरणाम्भोरुहबलेः ।
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।११।
अमुष्य त्वत्सेवा समधिगतसारं भुजवनम् ।
बलाप्कैलासेऽपि त्वदधिवसतौविक्रमयतः ॥
अलभ्या पातालेऽप्यलसचलितांगु ष्ठशिरसि ।
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितोमुह्यति खलः ।१२।
यदृद्धि सुत्राम्णो वरद ! परमोच्चैरपि सती-
मधश्चक्र बाणः परिजनविधैयस्त्रिभुवनः ।।
नतच्चित्रं तस्मिन्वरिवसितरित्वच्चरणयोः ।
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ।१३।
अकाण्ड : ब्रह्माण्ड क्षयचकितदेवासुरकृपा ।
विधेयस्याऽसीद्यस्त्रिनयन विषं संहृतवतः ।।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपिश्लाघ्यो भुवनभयभगंव्यसनिनः ।१४।
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे ।
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् ।
स्मरःस्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः । १५।
मही पादाघाताद् व्रजति सहसा संशयपदम् ।
पदं विष्णोर्भाम्यद्भुजपरिघरुग्णग्रहगणम् ।।
मुहुद्यर्योदौस्थ्यं यात्यनिभृतजटाताडिततटा ।
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
वियद्व्यापीतारागणगुणितफेनोद्गमरुचिः ।
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ॥
जगद्वीपाकारं जलधिवलयं तेन कृतमि
त्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः ।। १७ ।।
रथः क्षोणी यन्ता शतधृतिनगेन्द्रो धनुरथा-
रथांगेचन्द्राकौ रथचरणपाणिः शर इति ।।
दिधक्षोस्ते कोऽयं विपुरतृणमाडम्बरविधि:
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ।१८।
हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥१६॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम् ।
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम् ।
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥२०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामात्विर्ज्यं शरणद सदस्याः सुरगणाः ।
क़तुन वस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धा विधुरमभिचाराय हि मखाः ॥२१॥
प्रजानाथं नाथ प्रसभमधिकं स्त्वां दुहितरम् ।
गतं रोहिद्भूतां रिरमयियुमृष्यस्य वपुषा ।।
धनुःपाणेर्यातं दिवपि सपत्ना कृतममुम् ।
वसन्तन्तेऽद्यापि त्यजति न मृगव्याधरभसः ॥२२॥
स्वलावण्याशंसा धृतधनुषम्ह्नाय तृणवत् ।
पुरः प्लुष्टं दृष्ट्वापुरमथन पुष्पायुधमपि ।।
यदिस्त्रणं देवो यमनिरत देहार्ध-घटनाद्।
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ।।२३।।
शमशाने श्वाक्रीडा स्मर हर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्त्रगपि नूकरोटी परिकरः ।॥
अमंगल्यं शीलं तव भवतु नामैवमखिलम्
तथापि स्मर्तृणां वरद परमं मंगलमसि ।। २४ ।।
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः ।
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगति दृशः ।।
यदालोक्याह्लादं हृद इव निमज्ज्यामृतमये ।
यधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् । २५।
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वंहुतवह-
स्त्वमापरत्वं व्योमत्वमुधरणिरात्मा त्वमिति च ॥
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरम् ।
न विद्मस्तत्तत्त्वंवयमिह तु यत्त्वं न भवसि ।।२६।।
त्रयीं तिस्रो वृत्तिस्त्रिभुवनमथो त्रीनपिसुरा-
नकाराद्यैर्वर्णं स्त्रिभिरभिदधत्तीर्णविकृतिः ॥
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः ।
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् । २७।
भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।।
अमुष्मिन्प्रत्येकं प्रविचरति देवः श्रुतिरपि ।
प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥२८।।
नमोनेदिष्ठाय प्रियदव दविष्ठाय च नमो ।
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो नेदिष्ठाय त्रिनयन यविष्ठाय च नमो ।
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥२६॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः।
प्रबलतमसे तत्संहारे हराय नमो नमः ।।
जनसुखकृते सत्त्वोद्रिक्तौमृडाय नमो नमः ।
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०।।
कृशपरिणतिचेतः क्लेशवश्यं क्व चेदम् ।
क्व च तव गुणसीमोल्लङ्ङ्घिनीशश्ववृद्धिः ।।
इति चकितममन्दीकृत्य मां भक्तिराधाद्-
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।।३१॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपाने ।
सुरतरुवरशाखा लेखनीपत्त्रमुर्वी ।।
लिखति यदि गृहीत्वा शारदा सर्वकालम् ।
तदपि तव गुणानामीश पारं न याति ॥३२॥
असुरसुरमुनीन्द्ररचितस्येन्दुमौले:
ग्रंथित गुणमहिम्मो निर्गुणस्येश्वरस्य
सकलगुणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तेः स्तोत्रमेतच्चकार ।॥३३॥
अहरहरनवद्य धूर्जटेः स्तोत्रमेतत्-
पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।
स भर्वात शिवलोके रुद्रतुल्यस्तथाऽत्न
प्रचुरतरधनायुः पुत्रवान्कीतिमांश्च ॥३४
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् । ३५।
दीक्षादानं तपस्तीर्थ ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ।।३६।
कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्-
स्तवनमिदमकार्षीत् दिव्यदिव्यं महिम्नः ॥३७॥
सुरवरमुनिपूज्यं स्वर्गमोक्षकहेतुम्
पठति यदि मनुष्यः प्राञ्जलिनन्यिचेतः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥
श्रीपुष्पदन्तमुखपङ्क निर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥३६॥
आसमाप्तमिदं स्तोत्र पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।।४०।।
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वरः ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥४१॥
एकाकालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४२।।
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।
अपिता तेन देवेशः प्रीयतां मे सदाशिवः ।॥४३॥
इति श्रीशिवमहिम्नस्तोत्रं समाप्तम् ।।
प्रातिक्रिया दे