Geeta Cheptar-5/ गीता पञ्चमोऽध्यायः

अथ पञ्चमोऽध्यायः

अर्जुन उवाच

सन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

 यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् । १।

श्रीभगवानुवाच

 सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

 तयोस्तु कर्मसन्यासात्कर्मयोगो विशिष्यते । २।

ज्ञेयः स नित्यसन्यासी यो न द्वेष्टि न काङ्क्षति ।

 निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते। ३।

साङ्ख्ययोगौ  पृथग्बालाः प्रवदन्ति न पण्डिताः।

 एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् । ४।

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।

 एकं साङ्ङ्ख्यं च योगं च यः पश्यति स पश्यति। ५।

 सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

 योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति । ६।

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।

 सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते । ७।

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्वत्वित् ।

 पश्यञ्शृण्वन्स्पृशञ्जिघ्रनन्नश्नन्गच्छन्स्वपञ्श्वसन् । ८।

 प्रलपन्विसृजन्गृह्णन्त्न्नुन्मिषन्निमिषन्नपि ।

 इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्। ९।

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । १०।

 कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये। ११।

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

 अयुक्तः कामकारेण फले सक्तो निबध्यते। १२।

सर्वकर्माणि मनसा सत्न्नयास्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन्। १३।

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । १४।

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । १५ ।

 ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

 तेषामादित्यवञ्ज्ञानं प्रकाशयति तत्परम्। १६ ।

 तद्बूद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।

 गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः । १७।

 विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः। १८।

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः । १९।

न प्रह्रषेत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः । २० ।

 बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते। २१।

ये हि संस्पर्शजा: भोगा दुःखयोनय एव ते।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । २२।

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।

 कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः। २३।

योऽन्तः सुखो ऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति । २४।

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

 छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः । २५।

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

 अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्। २६।

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रूवोः।

प्राणापानौ समौ  कृत्वा नासाभ्यन्तरचारिणौ । २७।

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः। २८ ।

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति। २९।

ॐ तत्सदिति श्रीमद्भगवदीतासूपनिषत्सु ब्रह्मविद्यायां

 योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥५ ॥


Comments

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

hi_INHindi