Geeta Cheptar-4 श्रीमद्भग्वद्गीता चतुर्थोऽध्यायः

      

अथ चतुर्थोऽध्यायः

श्रीभगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

 विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्। १ ।

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।

स कालेनेह महता योगो नष्टः परन्तप। २।

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।

 भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् । ३ ।

         अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति । ४ ।

       श्रीभगवानुवाच

बहूनि में व्यतीतानि जन्मानि तव चार्जुन।

 तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप। ५ ।

 अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।

 प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया। ६ ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्। ७ ।

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। ८ ।

 जन्म कर्म च में दिव्यमेवं यो वेत्ति तत्त्वतः ।

 त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन। ९ ।

वीतरागभयक्रोधा: मन्मया मामुपाश्रिताः।

बहवो ज्ञानतपसा पूता मद्भावमागताः । १०।

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।

 मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः। ११।

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा । १२।

चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः।

तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम्। १३।

न मां कर्माणि लिम्पन्ति न में कर्मफले स्पृहा।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते। १४।

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् । १५।

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्। १६ ।

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः । १७।

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।

 स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्। १८।

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः । १९।

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः । २०।

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम्। २१।

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते। २२।

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते। २३।

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।

ब्रहौव तेन गन्तव्यं ब्रह्मकर्मसमाधिना । २४।

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति। २५।

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति। २६ ।

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।

 आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते। २७।

 द्रव्ययज्ञास्तपोयज्ञा  योगयज्ञास्तथापरे।

 स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः । २८ ।

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे।

 प्राणापानगती रुद्ध्वा प्राणायामपरायणाः । २९।

 अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । ३०।

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम। ३१।

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।

कर्मजान्विद्धि तान्सर्वानैवं ज्ञात्वा विमोक्ष्यसे। ३२।

 श्रेयान्द्रव्यमयाद्यज्ञाञ्ज्ञानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। ३३।

 तद्विद्धि प्रणिपातेन परिप्रश्वेन सेवया।

उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । ३४।

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि। ३५।

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।

सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि । ३६।

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा। ३७।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति। ३८।

 श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति। ३९।

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः। ४०।

योगसन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।

आत्मवन्तं न कर्माणि निबद्धन्ति धनञ्जय। ४१।

 तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः।

 छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत। ४२।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

ज्ञानकर्मसत्र्यासयोगी नाम चतुर्थोऽध्यायः ॥ ४॥


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

en_USEnglish