Geeta Chaper/  श्रीमद्भगवद्गीता नवमोऽध्यायः

   अथ नवमोऽध्यायः

    श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्। १।

राजविद्या राजगुह्यं  पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं  सुसुखं कर्तुमव्ययम्। २ ।

 अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्तमनि। ३।

 मया ततमिदं सर्व जगदव्यक्तमूर्तिना ।

 मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । ४ ।

 न च मत्स्थानि भूतानि पश्य मे योगमेश्वरम्।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । ५ ।

 यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।

 तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय। ६ ।

 सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।

 कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्। ७।

 प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।

 भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्। ८।

 न च मां तानि कर्माणि निबधनन्ति धनञ्जय।

उदासीनवदासीनमसक्तं तेषु कर्मसु। ९।

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।

 हेतुनानेन कौन्तेय जगद्विपरिवर्तते। १०।

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।

परं भावमजानन्तो मम भूतमहेश्वरम् । ११।

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।

राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः । १२।

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।

 भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। १३।

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। १४।

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् । १५।

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

 मन्त्रोऽहमहमेवाज्यमहमग्रिरहं हुतम् । १६।

 पिताहमस्य जगतो माता धाता पितामहः।

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च। १७।

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहत् ।

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्। १८।

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।

 अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन। १९।

त्रैविद्या मां सोमपाः पूतपापा

 यज्ञैरिष्ठा स्वर्गतिं प्रार्थयन्ते।

ते पुण्यमासाद्य सुरेन्द्रलोक-

मश्नन्ति दिव्यान्दिवि देवभोगान् । २०।

 ते तं भुक्त्वा स्वर्गलोकं विशालं

 क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना

 गतागतं कामकामा लभन्ते । २१।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। २२।

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः।

 तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्। २३।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।

 न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते। २४।

यान्ति देवव्रता देवान्पितॄन्यन्ति पितृव्रताः।

 भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्। २५।

पत्रं पुष्यं फलं तोयं यो में भक्त्या प्रयच्छति ।

तदहं भक्त्युपहतमश्नामि प्रयतात्मनः । २६।

यत्करोषि यदन्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्। २७।

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि । २८।

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्। २९।

 अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः। ३०।

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।

 कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति। ३१।

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्। ३२।

 कि पुनर्ब्राह्मणाः पुण्या: भक्ता: राजर्षयस्तथा।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्। ३३।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । ३४।

इति  श्रीमद्भगवद्गीतासूपनिषत्सु ब्रहाविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्मयोगो नाम नवमोऽध्यायः


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

en_USEnglish