Your cart is currently empty!
संस्कारसम्पादने कालस्य महत्त्वम्
Published Paper in Vakyarth dipika Journal
संस्कारसम्पादने कालस्य महत्त्वम्
डॉ विनोदकुमारशर्मा
सहायकाचार्य:, संस्कृतप्राच्यविद्यासंस्थानम् ,
कुरुक्षेत्रविश्वविद्यालय:, कुरुक्षेत्रं
ईमेल-vinodsharma8741@gmail.com
Mob. No. 8079082916
शोधसारांश:
– सर्वेऽपि संस्काराः कालानुसारं कथिता : सन्ति। कालानुसारं विहिताश्च यज्ञा:। कालशास्त्रानुसारन्तु सर्वविध कर्मानुष्ठाने काल : विचारणीय एव। चाणक्योपि ‘नीतिज्ञ: देशकालौ परीक्षेत” इत्युक्त्वा कालप्रभावं सूचयति। कालबलं जानन्त एव ऋषय षड्बलेषु कालबलं स्वीकुर्वान्ति। अकाले वा अनुचिते काले कृतो संस्कार : वैलक्ष्ण्यमुत्पादयति । संस्काराणां सम्पादने ऋषिभिः, आचार्यैश्च स्वीयानुसन्धानेन सुपरीक्षितो काल एव शास्त्रेषु मूहुर्त्तत्वेन निबद्ध:। गर्भाधानादयो संस्कारा: निषद्धसमये सम्पादिताः संततौ विकलतां जनयन्त्येव । कश्यपादित्यौ सन्ध्यायां गर्भाधानं कुरुतः फलतस्तु हिरण्यकशिपु सदृशो राक्षसः सम्बभूव। अत एवैतत् सन्ततिजन्यदूषणमपनेतुं कालस्य बलं मत्वैव समुचितकाले संस्काराः सम्पादनीयाः।
कूटशब्दा:- संस्कार:, गर्भाधान:, पुंसवनसंस्कार:, कालबलम्, मेधाजननम्
प्रस्तावना –
विश्वस्यान्यदेशानां भारतस्य च मध्ये संस्कृतेरेवान्तरं मुख्यतया दृश्यते। भारते यत्किमपि भोजन-वस्त्र-भवन- यन्त्र -चाक्चिक्यादिकं दृष्टिपथमायाति तत्तत्सर्वमपि वैदेशिकदेशेष्वषि अस्त्येव परन्तु तत्र संस्कृतिर्नास्ति भारतसदृशी। संस्कृतिकारणादेव भारतमस्ति विशिष्टं भुवि। भारतस्य संस्कृतिस्तावत् सनातनी, प्रकृतिपोषिका, प्रकृतिसंरक्षिका, पञ्चमहाभूतादिभौतिकपदार्थेष्वपि कल्पयति देवत्वबुद्धिम्। विना देवत्वबुद्धिं न रक्षितुमशक्यानि पञ्चमहाभूतानि। भौतिकपदार्थेष्वपि देवत्वस्य कल्पनमस्ति भारतीयासंस्कृतिः। संस्कृतिरियं संस्कारैः रक्ष्यते, संस्कृतो जन एव मूलं जानाति संस्कृतेः, संस्कृत एवं जनः प्रकृतिनियमान् पालयति, संस्कृत एव नारीजनेषु मातृत्वबुद्धिं स्थापयति। संस्कारसम्पादनावसरे सूर्यचन्द्रजलादिषु देवत्वपरिकल्पनमुपदिश्यते वैदिकैः मन्त्रैश्च। अत एव संस्काराः सन्त्यावश्यकाः। संस्काराणां सम्बन्धः देहशुद्धतां तथा देहविकासं चापि प्रशस्थयति। महानिर्वाणतन्त्रे संस्काराणाम् अनिवार्यत्वमुक्तम्, यथा-
संस्कारेण विना देवि देहशुद्धिर्न जायते।
नासंस्कृतोऽधिकारी स्यादैवे पैत्रये च कर्मणि।।
अतो विप्रादिभिवर्णैः स्वस्ववर्णोक्तसंस्क्रिया।
कर्तव्या सर्वथा यत्नैरिहामुत्र हितेप्युभिः ।।१
विषयप्रवेश:-
संस्काराणामनिवार्यत्वमवलोक्यैव भारतीयधर्मग्रन्थेषु, स्मृतिग्रन्थेषु, आश्वलायन-वैखानस-पारस्करादिगृह्यसूत्रेषु च संस्काराणां क्रमः, सम्पादनविधिश्चास्ति निरूपितः। संस्काराणां संख्याप्रमाणं तावदस्ति सर्वत्र भिन्नमेव। इयं भिन्नता वेदशाखाभेदकारणादेवास्ति।
१ . आश्वलायनगृह्यसूत्रे ११ संस्काराः
२ . वैखानसगृह्यसूत्रे १८ संस्कारा:
३ . पारस्करगृहसूत्रे १३ संस्कारा:
४ . अंगिरामते २५ संस्काराः
५ . मनुमते १६ संस्काराः
संस्काराणां संख्याविषये सर्वमान्यं प्रमाणं मनोः स्वीक्रियते। तदनुसारं १६ संस्कारा: प्रसिध्दा: सन्ति ।
षोडशसंस्कारेष्वपि त्रयो जन्मनः प्रागेव गर्भस्थशिशोरेव विधीयन्ते, एकः मृतदेहस्यान्तिमाख्यः संस्कारः, तथाऽन्यैकादशसंस्काराः जातकर्म-नामकर्म-नामकरण-मुण्डनादयो यथाकालं सम्पादनीयाः । इमे संस्काराः मानवजीवने गर्भाधानादन्तिमक्रियां यावदपि क्रियन्ते एव। अर्थात् संस्कारसम्पादनन्तु जीवनस्य प्रत्येकस्तरे आवश्यकमिति कथितमाचार्यै:।
संस्कारसम्पादने कालस्यास्ति प्राधान्यम्। वस्तुतः काल एव संस्करोति बालम्। सम्प्राप्ते यथोचितकाले सम्पादिताः समन्त्रकाः क्रियाः संस्कारत्वेन परिणाम्यन्ते। यथा समुचितकाले (प्रातः कालेऽर्कोदयकाले च) कृतमीशध्यानमात्मबलवर्धनाय भवति, न मध्याहने कृतं ध्यानं तथा शान्तये भवति। अर्थात् कालमाहात्म्यं तु अस्त्येव। कालस्य देवस्तु स्वयं महाकालः एव। कालेन सम्पादिताः क्रियाः मनुष्यं “कालजयी” “कालवेत्ता” इत्यादिगुणैः परिवर्तयन्ति। अत एव सर्वाणि कर्माणि कालानुसारमेव करणीयानि। आचार्यै: यज्ञा अपि कालानुसारमेव कथिताः यथा-
वेदा: तावत् यज्ञकर्मप्रवृता
यज्ञा: प्रोक्ता: ते तु कालाश्रयेण।२
एवं कालमाहात्म्यमनुभूयैव ज्योतिश्शास्त्रस्य मुहूर्तग्रन्थेषु सर्वेषामपि संस्काराणां कालः निबद्धः मुहूर्तकैः। विना कालं मुहूर्तं वा संस्कारः नैव सम्भाव्यते। एवं संस्कारकालयोरविनाभावसम्बन्धः वक्तुं शक्यते। विना कालं संस्कारः न सम्पादनीय इति विषये मुहूर्तग्रन्थाः स्मृतिग्रन्थाश्च प्रमाणानि वदन्ति। प्रत्येकसंस्काराय तिथिः, वासरः, नक्षत्राणि, लग्नानि च कालबलानुगुणं महताऽनुसन्धानेन स्वीयानुभवैश्च संस्कारमुहूर्ताः प्रतिपादिताः सन्ति।
गर्भाधाने कालस्य महत्त्वम्–
“गर्भः सन्धार्यते येन कर्मणा“३ तद् गर्भाधानम्, जायाभिगमनं च, इत्यनयो विधिः कात्यायनेन नस्तविधिरिति नाम्ना उक्तः। एष संस्कारः सर्वेषामपि संस्काराणां बीजं योनिर्वास्ति। एतद्विनाऽन्यसंस्कारास्तु सर्वथाऽसम्भवा एव, जन्माभावात्। अत एवास्य संस्कारस्य सम्पादने शास्त्रीयविधिरवलोकनीय एव। तथा समुचितकालश्च विमर्शणीयः। अनुचितकाले, अशुभतिथ्यादिषु, पर्वणि (अमावस्यां पूर्णिमायां वा), ग्रहणसमये, सन्ध्याकाले, ब्रह्ममुहूर्ते च कदापि गर्भाधानः न करणीयः, एवम् अनुचिते कृते सति सन्ततिषु वैकलव्यं वैलक्षण्यं च दृश्यते। प्रसिद्धमुदाहरणं तावत् कश्यपादित्योरेवास्ति अस्मत्समक्षम्। उभाभ्यामपि कामवेगेन सन्ध्याकाल एव सहवासः कृतः। एतस्माज्जातः गर्भाधानसंस्कारस्तु महादुष्टं हिरण्यकशिपुमजनयत्।
अतः पूर्वोक्ताशुभसमयेषु गर्भाधानसम्पादनेन सन्ततिषु वैकलव्यमपि शास्त्रेषु सूचितम्। एष गर्भाधानसंस्कारस्तु जगतः महान्नुपकारकः भवितुमर्हति। अद्यत्वे सर्वैरपि सन्ततिद्वयमिष्यते केवलम्, तत्रापि एकः पुत्रो भवतु पुत्री चैका भवेत्। सर्वकारकर्मकारिणां कृते तु नियम एवास्ति सन्ततिद्वयस्य। अतः सर्वेषामपि एतदाकांक्षितं भवति यत् एकः पुत्रः एका च पुत्री स्यात्, परन्तु बहूनां केवलं पुत्रद्वयं पुत्रीद्वयं वा दृश्यते, एतदुपायस्तु गर्भाधानाय शास्त्रविहितरात्र्यः भवितुमर्हन्ति। तदनुसारं यथा४ –
रात्रौ चतुर्थ्यां पुत्रः स्यादल्पायुधनवर्जितः।
पञ्चम्यां पुत्रिणी नारी षष्ठ्यां पुत्रः तु मध्यमः।।
सप्तम्यामप्रजा योषिदष्टम्यामीश्वरः पुमान्।
नवम्यां सुभगा नारी दशम्यां प्रवरः सुतः।।
एकादश्यामधर्मा स्त्री द्वादश्यां पुरुषोत्तमः।
त्रयोदश्यां सुता पापा वर्णसंकरकारिणी।।
धर्मज्ञश्च कृतज्ञश्च आत्मवेदी दृढव्रतः।
प्रजायते चतुर्दश्यां पञ्चदश्यां पतिव्रता।।
आश्रयः सर्वभूतानां षोडश्यां जायते पुमान्।
इत्थमुक्तरात्र्यः पुंस्त्रीप्रसूतीकारणानि सन्ति। अतः कालस्य गर्भाधाने महदस्ति वैशिष्ट्यम्। गर्भाधानसंस्कारस्य एतादृक्वैशिष्ट्यं ज्ञात्वा संस्कारसम्पादनेन सन्ततिषु समापतन्तं दोषं संस्कृतिविकृतिं चापाकर्तुं शक्नुमो वयम्।
पुंसवनसंस्कारे कालमाहात्म्यम्–
गर्भे सन्धारितः रजवीर्यमिश्रणरूपपिण्डः पुमान् भवतु अर्थात् अयं गर्भः पुमान् भवतु” इति धिया क्रियमाणोऽयं संस्कारः पुरुषसंज्ञकनक्षत्रेण युक्ते चन्द्रमसि एव संस्कार्यः यथा-
“तदहः पुंसा नक्षत्रेण चन्द्रमा युज्येत्“५ ।
चन्द्रमा पुन्नक्षत्रेण युक्तो न वेति केवलं ज्योतिश्शास्त्रद्वारा एव ज्ञायते, नान्येन केनाप्युपायेन। पारस्करसूत्रानुसारेण पुन्नक्षत्रे चन्द्रे सति गर्भिण्याः दक्षिणनासापुटे वटवृक्षस्य रसः निपात्यते।
सीमन्तोन्नयने कालमहत्त्वम्–
सीमानि उन्नीयन्तेऽस्मिन् इति। अस्मिन् संस्कारे गर्भिण्याः स्वास्थ्यलाभः तदात्मबलवृद्धिश्चास्ति प्रयोजनम्। एष संस्कारः पुंसवनवदेव पुंसंज्ञकनक्षत्रेषु विधीयते। यथा
।। पुंसवनवत्।।६
“प्रथमगर्भे मासे षष्ठेऽष्टमे वा“
जातकर्मसंस्कारः तत्कालश्च७
जातस्य कुमारस्य नालछेदनात् प्राक् जातकर्मसंस्कारः सम्पाद्यते। अस्यैवापरं नाम मेधाजननसंस्कारोऽपि विद्यते । अस्मिन् संस्कारे हिरण्यमधुसर्पिषां योगं बालकं लेहयति पिता। अनेन रक्तशुद्धिः, मेधाजननं च संजायते। “जातस्य कुमारस्याछिन्नार्या नाड्यां मेधाजननायुष्ये करोति“८ एतत्सम्पादनानन्तरं पिता बालस्य मातरमभिमन्त्रयन् वदति-
इडासि मैत्रावरूणी वीरे वीरमजीजनथाः।
सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरोदिति।।९
मित्रवरुणयोरंशभूता त्वमसि वीरमाते, वीरं प्रसूतवती, वीरं च प्रसूस्यति। इदमेवं मैत्रवरुणयोरंशत्वभावना सम्पादनेन सन्ततिषु जलादीन् प्रति देवत्वमुत्पद्यते स्वत्तः। अन्यसंस्कारः जन्मन एकादशे वा द्वादशे वा दिवसे मृदुध्रुवक्षिप्रचरसंज्ञकनत्रेषु क्रियते, यथा-
एकादशे द्वादशकेऽपि घस्त्रे
मृदुध्रुवक्षिप्रचरोडुषु स्यात्।१०
एतेषु नक्षत्रेषु नामकरणसंस्कार: कार्यः। नाम विना लोके व्यवहारः न सम्भवति, अतः बहुविचार्य द्वयक्षरं वा चतुक्षरं वा नाम स्थापयेत्। आयुषः वृद्धयर्थं रोगशमनार्थंञ्च चौलकर्म (चूडाकर्म, केशकर्तनम् उपर्युक्तग्रहनक्षत्रादिस्थितावेव क्रियते। एतदर्थं विषमवर्षाण्येव कथितानि। यथा-
चूडावर्षात्तृतीयात् प्रभवति विषमेऽष्टारिक्ताद्यषष्ठী११
यज्ञोपवीतसंस्कारे कालस्य महत्त्वम् –
यज्ञोपवीते वर्णानुसारं त्रिविधकालः कथितः। तत्र नित्यकाम्यगौणाश्च कालः यज्ञोपवीतसंस्काराय भणितः। त्रिष्वपि कालेषु मुहूर्तग्रन्थेषु कथनानुसारमेव संस्कारः सम्पादनीयः।
विवाहसंस्कारे कालस्य महत्त्वम् –
षोडशसंस्कारेषु पञ्चदशतमः संस्कार: विवाहसंस्कार एव। एतदर्थं कन्यायाः चन्द्रबलमवश्यमवलोकनीयं भवेत्। एतच्चन्द्रबलं विना ज्योतिषं न ज्ञातुं शक्यते। विवाहसंस्कारेऽपि बहुविधसंस्काराः गुणाः, दोषाः, मासाः, नक्षत्राणि, लग्नानि च सन्ति येषां ज्ञानमन्तरेण कालशास्त्रमसम्भवमेव। कन्यायाः लग्नशुद्धिविषये रामदैवज्ञ: वदति यत्
विवाहे चन्द्रबलस्यानिवार्यता, यतोहि-
भार्यात्रिवर्गकरणं शुभशीलयुक्ता
शीलं शुभं भवति लग्नवशेन तस्याः।
तस्माद्विवाहसमयः परिचिन्त्यते हि,
तन्निघ्नतामुपगताः सुतशीलधर्माः।।१२
स्त्रिणां विधोर्बलमुशन्तिविवाहगर्भ
संस्कारयोरितरकर्मसु भर्तुरेव“। १३
विवाहसंस्कारे तु कालशास्त्रस्याद्भुतमेवास्ति योगदानम्। द्वौ अनभिज्ञौ जनौ सहवसितुं सन्नद्धौ, नान्योन्यं जानीतः, एतत्समये कालशास्त्रमेव करोति बलाबलम्। एतविना नान्यः पन्थाः विद्यते क्वचिदपरिचितुं ज्ञातुम्। विज्ञानेऽपि नास्ति एतादृशः मार्गाः, अतः ज्योतिषमस्ति विज्ञानस्यापि विज्ञानम्।
उपसंहार:-
एवमुपर्युक्तप्रमाणैः शास्त्रीयतथ्यैश्च स्पष्टतया वक्तुं शक्यते यत् संस्काराः कालं विना न सम्पाद्यन्ते। प्रत्येकसंस्काराय कालः निर्दिष्टोऽस्ति। सत्यमेव ज्योतिषशास्त्रसदृशं जगदुपकारकं शास्त्रं नास्त्येव तथा न हि कञ्चन् शक्नोति स्थातुं विना ज्योतिषस्य प्रयोगं जीवने। अतः शास्त्रानुगुणप्रमाणेषु श्रद्दधानाः सन्तो वयमस्य प्रयोगं कुर्वन्तः सुखिनो भवेम।
१ . महानिर्वाणतन्त्रे,उल्लास:-09, श्लो.-2-3
२ .सिद्धान्तशिरोमणि:,मध्यमाधिकार:, श्लो., 09
३ . पूर्वमीमांसायां जैमिनि:
४. गदाधरपद्धति:,प्रकाशन- ए.सो.बं., पृ.454
५ . पारस्करगृह्यसूत्रे, 1.14.03
६ . पारस्करगृह्यसूत्रे, 1.15.02
७ . पारस्करगृछ्यसूत्रे, 1.15.03
८ . पारस्करगृह्यसूत्रे, 1.16.03
९ . पारस्करगृह्यसूत्रे, 1.16.19
१०. मुहूर्तचिन्तामणिः, संस्कारप्रकरणे, श्लो. 11
११. तत्रैव, संस्कारप्रकरणे श्लो.-29
१२ . तत्रैव, विवाहप्रकरणे, श्लो. 01
१३ . तत्रैव, संस्कारप्रकरणे, श्लो.09
Leave a Reply